विस्मृतभेदाः सन्तो निर्मलभावापन्नाः
विस्मृतभेदाः सन्तो
निर्मलभावापन्नाः
एकीभावं हृदयारूढं सततं कुर्वन्तु
भो भोः, सततं कुर्वन्तुऽ ॥ विस्मृत ॥
पूर्वज-मुनिजन-कविजन-वाञ्छा सर्वेषामैक्यं
सुखिनस्सर्वे सन्त्विति गानं तेषां बहुहृद्यम् ।
भाषा-धन-मत-जाति-विभेदः हृदये मा भवतु
दुःखित-दीन-जनानुन्नेतुं हस्ताः प्रसरन्तु
भो भोः, हस्ताः प्रसरन्तुऽ ॥ विस्मृत ॥ १॥
गङ्गा-तुङ्गा-कावेरी-जलमस्माकं मत्वा
कृतसङ्कल्पाः कार्यं कर्तुं आलस्यं हित्वा ।
सुवर्णपुष्पां पृथिवीमेतां क्रष्टुं आयान्तु
प्रवहतु कामं स्वेदस्रोतः धैर्यं मा जहतु
भो भोः, धैर्यं मा जहतुऽ ॥ विस्मृत ॥ २॥
घर्षण-लुण्ठन-वञ्चन-हननं प्रलयं संयातु
स्नेहस्रोतः प्रवहतु भ्रातुर्भावो हृदि लसतु ।
अनिलः सलिलं अनलः सर्वं सर्वेषामेकं
प्रवहति रक्तमभक्तं मातुः भेदो मा भवतु
भो भोः, भेदो मा भवतुऽ ॥ विस्मृत ॥ ३॥
गायकः
श्री विध्या भूषणः
गीतकारः
- जि. महाबलेश्वरभट्टः
* Vocalist
Sri Vidya Bhushan
* LYRICISTS
G. Maha Baleswar Bhatt
जयतु संस्कृतम्!
जयतु भारतम् !!
0 Comments
Please do not enter any spam link in the comment box.